Close

    विभागस्य विषये

    प्रकाशित तिथि : जनवरी 13, 2026

    उत्तराखण्डः देवभूमिः इति नाम्ना विश्वस्मिन्नपि विश्वे प्रसिद्धः। प्राचीनकालादेव उत्तराखण्डः संस्कृतम् इति दिव्यभाषया सह सम्बद्धः अस्ति। अस्माकं सर्वेऽपि धर्मग्रन्थाः यथा वेदाः, उपनिषदः, रामायणं, महाभारतं, पुराणानि धर्मशास्त्राणि चेत्यादीनि संस्कृतभाषायामेव लिखितानि सन्ति। प्राचीनमान्यतानाम् अनुसारं महर्षिः वेदव्यासः उत्तराखण्डस्य सुप्रसिद्धस्य बदरीनाथधाम्नः समीपे स्थिते माणानामके ग्रामे 18 पुराणानां रचनाम् अकरोत्। तत्र स्थिता व्यासगुहा अद्यापि अस्य साक्षिरूपा अस्ति।
    सर्वे संस्कृतविद्वांसः सर्वसम्मताः सन्ति यत् कविकुलगुरोः महाकविकालिदासस्य प्रारम्भिकं जीवनम् उत्तराखण्डस्य उपत्यकासु (कविल्ठाग्रामः, रुद्रप्रयागः), व्यतीतम्। दिव्यहिमालयस्य सौन्दर्यं शान्तिश्च तस्य काव्येषु नाटकेषु च स्पष्टतया दृश्येते। उत्तराखण्डे अनेकेषु मठमन्दिरेषु दैनिकपूजापाठः, भजनं, कीर्तनं, प्रवचनादिकं च संस्कृतभाषाायामेव सम्पाद्यते येषु बदरीनाथः, केनरनाथः, गंगोत्री, यमुनोत्री इत्येतानि चत्वारि धामानि अपि सम्मिलितानि सन्ति। तात्पर्यमिदम् अस्ति यत् गंगारूपिणी संस्कृतज्ञानधारा देवभूमेः उत्तराखण्डात् एव प्रवहन्ती सम्पूर्णां भारतभूमिं पवित्राम् अकरोत्।
    संस्कृतभाषायाः महत्त्वं न केवलम् आध्यात्मिकदृष्ट्या अपितु वैज्ञानिकदृष्ट्या अपि अस्ति। अस्माकं वेदेषु ज्ञानेन सह विज्ञानम् अपि प्रचुरमात्रायां वर्तते। गुरुत्वाकर्षणस्य सिद्धान्तः न्यूटन् इत्यस्मात् ५०० वर्षेभ्यः पूर्वं भस्कराचार्येण प्रतिपादितः आसीत्। राइट् ब्रदर्स् इत्यनयोः विमानस्य आविष्कारात् पूर्वं तारापाण्डेदम्पतीभ्यां महर्षिभरद्वाजप्रणीतस्य यन्त्रसर्वस्वस्य वायुयानसम्बन्धिनः अध्यायस्य अध्ययनात् परं 1865 तमे वर्षे मरुत्सवः नामकं सौरशक्तियुक्तस्य उड्डयनयन्त्रस्य निर्माणं कृतम् आसीत्। महर्षिकणादः रदरफोर्ड’ इत्यस्मात् सहस्रवर्षपूर्वं स्वीये वैशेषिकदर्शने अणुवादस्य चर्चां कृतवान् आसीत्।
    इत्थम्प्रकारेणैव पाई इत्यस्य मानं, पृथिव्याः परिभ्रमणगतिः, शून्यं, दशमलवः इत्यादयः अनेकेषां वैज्ञानिक& गणितीयविकासानां च स्तम्भाः सन्ति ये भारतीयैः आविष्कृताः आसन् परन्तु वयं तान् विदेशिनाम् आविष्काररूपेण जानीमः। भारतेन संस्कृतभाषायाः कारणात् एव विश्वगुरुः इति मान्यता प्राप्ता आसीत्। विदेशेषु कृतेन केनचित् अनुसन्धानेन ज्ञातं यत् संस्कृतवक्तृणां मस्तिष्कम् अन्यभाषाभाषिणां जनानां मस्तिष्कात् अपेक्षया तीव्रतरं कार्यं करोति इति। एतान् सर्वान् अपि विषयान् अतिरिच्य सर्वाधिकं महत्त्वपूर्णं तथ्यमिदम् अस्ति यत् मानवकल्याणस्य मार्गः अपि अनया भाषया एव प्रशस्तः भवति । न केवलं मानवकल्याणं, समाजकल्याणम् अपितु विश्वकल्याणम् अपि अस्यामेव भाषायाम् अन्तर्निहितम् अस्ति।
    केवलम् एषा भाषा एव सम्पूर्णं जगत् एकतासूत्रे सम्बन्धुं समर्था अस्ति। अत एव प्रो0बाप, डुबोइ, प्रो0 मैक्समुलर इत्यादयः पाश्चात्त्यभाषाविदः संस्कृतं सर्वासां भाषाणां जननीं विकासरूपां च अमन्यन्त। प्रसिद्धः भाषाविद् प्रो0 विल डुरान् अकथयत् यत् भारतं मानवजातेः जन्मस्थानं, संस्कृतं च यूरोपीयभाषाणां जननी अस्ति’इति। संस्कृतस्य वैज्ञानिकीं प्रकृतिं मनसि निधाय डॉ0 भीमराव अम्बेडकरः भारतीयसङ्घस्य आधिकारिकभाषायाः रूपेण संस्कृतस्य समर्थनं कृतवान्। एतान् सर्वान् विषयान् अतिरिच्य संस्कृतं हिन्दूधर्मे अपि महत्त्वपूर्णम् अस्ति यतोहि जन्मनः मृत्युपर्यन्तं सर्वे षोडश-संस्काराः अस्यां भाषायामेव सम्पाद्यन्ते येन व्यक्तिः व्यक्तिगत&सामाजिक&दृष्ट्या उपयोगी भवति तथा च लौकिक&आध्यात्मिक&दृष्ट्या सफलतां प्रति गच्छति।
    उत्तराखण्ड&संस्कृत&अकादम्याः स्थापना
    उत्तराखण्ड&संस्कृत&अकादम्याः स्थापना 2002 तमे वर्षे तत्कालीनस्य मा0मुख्यमन्त्रिणः नारायणदत्ततिवारीवर्यस्य अध्यक्षतायाम् उत्तराखण्डसर्वकारद्वारा शासनादेशसंख्या 1249/यू.एस./2002 दिनांक 20-12-2002 माध्यमेन कृता आसीत्। अस्याः स्थापनायाः मुख्योद्देश्यं वर्तते& देवभूमौ उत्तराखण्डे देवभाषा संस्कृतं स्वीयं प्राचीनं महिमानं पुनरपि प्राप्नुयात् स्वीयया पवित्रज्ञानधारया सम्पूर्णं जगच्च पावयेदिति।