
श्रीपुष्करसिंहः धामी
मा0 मुख्यमन्त्री, उत्तराखण्डः
अध्यक्षः, सामान्यसमितिः, उत्तराखण्ड संस्कृत अकादमी

डॉ0 धनसिंहः रावतः
डॉ0 धनसिंहः रावतः
उपाध्यक्षः, सामान्यसमितिः, उत्तराखण्ड संस्कृत अकादमी

श्रीमान् आनन्दबर्द्धनः
मुख्यसचिवः, उत्तराखण्डशासनम्
अध्यक्षः, शासीनिकायः, उत्तराखण्ड संस्कृत अकादमी

श्रीदीपककुमारः
सचिवः, संस्कृतशिक्षा, उत्तराखण्डशासनम्
अध्यक्षः, कार्यकारिणीसमितिः, उत्तराखण्ड संस्कृत अकादमी
परिचय
उत्तराखण्डः देवभूमिः इति नाम्ना विश्वस्मिन्नपि विश्वे प्रसिद्धः। प्राचीनकालादेव उत्तराखण्डः संस्कृतम् इति दिव्यभाषया सह सम्बद्धः अस्ति। अस्माकं सर्वेऽपि धर्मग्रन्थाः यथा वेदाः, उपनिषदः, रामायणं, महाभारतं, पुराणानि धर्मशास्त्राणि चेत्यादीनि संस्कृतभाषायामेव लिखितानि सन्ति। प्राचीनमान्यतानाम् अनुसारं महर्षिः वेदव्यासः उत्तराखण्डस्य सुप्रसिद्धस्य बदरीनाथधाम्नः समीपे स्थिते माणानामके ग्रामे 18 पुराणानां रचनाम् अकरोत्। तत्र स्थिता व्यासगुहा अद्यापि अस्य साक्षिरूपा अस्ति।
सर्वे संस्कृतविद्वांसः सर्वसम्मताः सन्ति यत् कविकुलगुरोः महाकविकालिदासस्य प्रारम्भिकं जीवनम् उत्तराखण्डस्य उपत्यकासु (कविल्ठाग्रामः, रुद्रप्रयागः), व्यतीतम्। दिव्यहिमालयस्य सौन्दर्यं शान्तिश्च तस्य काव्येषु नाटकेषु च स्पष्टतया दृश्येते। उत्तराखण्डे अनेकेषु मठमन्दिरेषु दैनिकपूजापाठः, भजनं, कीर्तनं, प्रवचनादिकं च संस्कृतभाषाायामेव सम्पाद्यते येषु बदरीनाथः, केनरनाथः, गंगोत्री, यमुनोत्री इत्येतानि चत्वारि धामानि अपि सम्मिलितानि सन्ति। तात्पर्यमिदम् अस्ति यत् गंगारूपिणी संस्कृतज्ञानधारा देवभूमेः उत्तराखण्डात् एव प्रवहन्ती सम्पूर्णां भारतभूमिं पवित्राम् अकरोत्।
और पढ़ें
प्रो0 मनोजकिशोरः पन्तः
सचिवः, उत्तराखण्ड संस्कृत अकादमी
